Mantras

मंगलाचरण

श्रीगणॆशाय नमः। श्री सरस्वत्यै नमः । श्री गुरुभ्यॊ नमः ।श्री इष्ट देवतायै नमः । श्री कुलदेवतायै नमः॥

करदर्शन व भूमिवंदन

कराग्रॆ वसते लक्ष्मी करमध्ये सरस्वती ।करमूले तु गोविंदो प्रभाते करदर्शनम्॥१॥

समुद्र वसने देवि पर्वतस्तनमण्डले ।विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे॥२॥

प्रातः स्मरण

वक्रतुंड महाकाय कोटिसूर्यसमप्रभ | निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा || 1 ||

गणनाथ सरस्वती रविशुक्र सरस्वतीन् | पंचेतान्स्मरेनित्यं वेदवाणीप्रवृत्तये || 2 ||

विनायकं गुरुं भानुं ब्रह्माविष्णुमहेश्वरान् | सरस्वतीं प्रणम्यादौ सर्वकार्यार्थसिद्धये || 3 ||

अभीप्सितार्थ सिध्यर्थं पूजितो यः सुरासुरैः | सर्वविघ्नहरस्तस्मै श्री गणाधिपतये नमः || 4 ||

शांताकारं भुजगशयनं पद्मनाभं सुरेशं |

विश्वाधारं गगनसदृशं मेघवर्णं शुभागं |

लक्ष्मीकांतं कमलनयनं योगिभिर्ध्यानगम्यं |

वंदेविष्णुं भवभयहरं सर्वलोकैकनाथम् || 5 ||

मूकं करोति वाचालं पंगुं लंघयते गिरीम् | यत्कृपा तमहं वंदे परमानंदमाधवं ||6||

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः | गुरुः साक्षात्परब्रह्म तस्मै श्री गुरवे नमः || 7|

ब्रह्मानंदं परमसुखदं केवलं ज्ञानमूर्तिं | द्वम्दातीतम् गगनसदृशं तत्वमस्यादिलक्ष्यम् |

एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं | भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि || 8 ||

देव पूजा मंत्र

आगच्छ् देवदेवेश तेजोराशे जगत्पते। क्रियमाणाम् मया पूजाम् गृहाण सुरसुत्तम॥श्री अमुक देवताभ्यो नमः। आवाहनार्थे अक्षताम् समर्पयामि ॥

नानारत्न समायुक्तम् कार्तस्वरविभूषितम्।आसनम् देवदेवेश प्रीत्यर्थम् प्रतिगृह्यताम्॥श्री अमुक देवताभ्यो नमः। आसनार्थे अक्षताम् समर्पयामि ॥

पाद्यं गृहाण देवेश सर्वक्षेमसमर्थ भो ।भक्त्या समर्पितं देव लोकनाथ नमोस्तुते ॥श्री अमुक देवताभ्यो नमः। पादयॊः पाद्यम् समर्पयामि ॥

नमस्ते देवदेवेश नमस्ते धरणीधर । नमस्ते जगदाधार अर्घ्यं नः प्रतिगृह्यताम् ॥श्री अमुक देवताभ्यो नमः। हस्तयॊः अर्घ्यम् समर्पयामि ॥

कर्पूरवासितम् तॊयं मंदाकिन्याः समाहृताम्।आचम्यताम् जगन्नाथ मयादत्तम् हि भक्तितः॥श्री अमुक देवताभ्यो नमः। मुखे आचमनीयम् समर्पयामि ॥

गंगा सरस्वती रॆवा पयॊष्णी नर्मदा जलैः। स्नापितोऽसि मयादेव तथा शातिं कुरुष्ट मे॥श्री अमुक देवताभ्यो नमः| स्नानीयं समर्पयामि ॥

गृहावै प्रतिष्ठासूक्तम् तत्प्रतिष्ठित तमयावाचा शंस्तव्यं तस्माद्यद्यपिदूर इव पशूंल्लभते ग्रहानॆवै नानाजिगमिषति गृहाहि पशूनां प्रतिष्ठा प्रतिष्ठा ।। श्री अमुक देवताभ्यो नमः। सुप्रतिष्ठितमस्तु ॥

सर्वभूषादिके सौम्ये लोकलज्जा निवारणे। मयोपपादिते तुभ्यम् वाससि प्रतिगृह्यताम्॥ श्री अमुक देवताभ्यो नमः| वस्त्रोपवस्तार्थे कार्पासवस्त्रम् समर्पयामि॥

देवदेव नमस्तेस्तु त्राहिमाम् भवसागरात् । ब्रह्मसूत्रम् सॊत्तरीयम् गृहाण पुरुषॊत्तम॥ श्री अमुक देवताभ्यो नमः| यज्ञॊपवीतम् समर्पयामि॥

श्रीखंडं चंदनं दिव्यं गंदाढ्यं सुमनॊहरं । विलॆपनं सुरश्रॆष्ठ चंदनं प्रतिगृह्यतां ॥ श्री अमुक देवताभ्यो नमः| विलॆपनार्थे चंदनं समर्पयामि ॥

अक्षतास्तंडुलाः शुभ्राः कुंकुमॆन विराजिताः । मया निवेदिता भ्क्त्या गृहाण परमॆश्वर ॥ श्री अमुक देवताभ्यो नमः| अक्षतां समर्पयामि ॥

हरिद्रां स्वर्णवर्णाभा सर्व सौभाग्यदायिनी । सर्वालंकार मुख्यादि दॆवि त्वं प्रतिगृह्यतां ॥ श्री अमुक देवताभ्यो नमः| हरिद्रां समर्पयामि ॥

हरिद्राचूर्ण संयुक्तं कुंकुमं कामदायकं । वस्त्रालंकरणं सर्वं दॆवि त्वं प्रतिगृह्यतां । श्री अमुक देवताभ्यो नमः| कुंकुमं समर्पयामि ॥

कज्जलं कामदं रम्यं कामिनीकामसंभवं । नॆत्रयॊर्भूषणार्थाय कज्जलं प्रतिगृह्यतां ॥ श्री अमुक देवताभ्यो नमः| कज्जलं समर्पयामि ॥

उदितारुण संकाशं जपाकुसुम सन्निभं । सीमन्त भूषणार्थाय सिन्दूरं प्रतिगृह्यतां । श्री अमुक देवताभ्यो नमः| सिन्दूरं समर्पयामि ॥

मांगल्यतंतुमणिभिर्मुक्ताफल विराजितम्। कंठस्य भूषणार्थाय कंठसूत्रम् प्रतिगृह्यताम्॥ श्री दॆवै नमः। कन्ठसूत्रम् समर्पयामि ॥

काचस्य निर्मितं दिव्यं कंकणं च सुरॆश्वरि। हस्तालंकरणार्थाय कंकणं प्रतिगृह्यतां॥ श्री दॆवै नमः। कंकणं समर्पयामि ॥

ज्यॊत्स्नापते नमस्तुभ्यम् नमस्ते विश्वरूपिणॆ | नानापरिमलद्रव्यम् गृहाण परमॆश्वर | श्री अमुक देवताभ्यो नमः| नानापरिमल द्रव्याणि समर्पयामि॥

माल्यादीनि सुगंधीनि मालत्यादीनि वै प्रभॊ। मया हृतानि पूजार्थम् पुष्पाणि प्रतिगृह्यताम् । श्री अमुक देवताभ्यो नमः| नानाविध पत्र पुष्पाणि समर्पयामि॥

वनस्पतिरसॊद्भूतॊ गंधाढ्यॊ गंधरुत्तमः । अर्घॆयः सर्वदॆवानां धूपॊऽयं प्रतिगृह्यतां । श्री अमुक देवताभ्यो नमः| धूपमाघ्रापयामि ॥

साज्यं त्रिवर्ति संयुक्तं वह्निनायॊजितं मया । दीपं गृहाण दॆवॆश त्रैलॊक्यतिमिरापह । भक्त्यादीपं प्रयच्छामि दॆवाय परमात्मने। त्राहिमां निरयात् घॊरात् दीपोऽयं प्रतिगृह्यतां ॥ श्री अमुक देवताभ्यो नमः| दीपं समर्पयामि ॥

नैवेद्यं गृह्यतां दॆव भक्तिं मे ह्यचलां कुरु । ईप्सितं मे वरं दॆहि परत्र च परां गतिं । शर्कराखंड खाद्यानि दधि क्षीर घृतानि च । आहारं भक्ष्य भॊज्यं च नैवेद्यं प्रतिगृह्यतां ॥

ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा ।ॐ उदानाय स्वाहा ।ॐ समानाय स्वाहा । ॐ ब्रह्मणे स्वाहा । ॐ अमुक देवताभ्यो नमः । नैवेद्यं समर्पयामि ॥

नैवेद्य मध्ये पानीयं समर्पयामि । उत्तरापॊशनं समर्पयामि । हस्तप्रक्षालनं समर्पयामि । मुखप्रक्षालनं समर्पयामि । करॊद्वर्तनार्थे चंदनं समर्पयामि ॥

पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतं | कर्पूरैला समायुक्तं तांबूलं प्रतिगृह्यतां || ॐ अमुक देवताभ्यो नमः । तांबूलं समर्पयामि ||

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः | अनंत पुण्यफलदमतः शातिं प्रयच्छ मे | ॐ अमुक देवताभ्यो नमः । दक्षिणां समर्पयामि ||

इदं फलं मयादॆव स्थापितं पुरतस्तव । तेन मॆ सफला वाप्तिर्भवॆत् जन्मनि जन्मनि ॥ ॐ अमुक देवताभ्यो नमः । पूर्णफलं समर्पयामि ॥

चन्द्रादित्यौ च धरणिर्विद्युदग्निस्तथैवच । त्वमॆव सर्व ज्यॊतींषि आर्तिक्यं प्रतिगृह्यतां ॥ ॐ अमुक देवताभ्यो नमः । महानीरांजन आर्तिक्यं समर्पयामि ॥

कर्पूरगौरं करुणावतारं संसारतारं भुजगेंद्रहारं । सदावसंतं हृदयारविंदे भवं भवानीसहितं नमामि॥ ॐ अमुक देवताभ्यो नमः । कर्पूरार्तिक्यं समर्पयामि नमस्करोमि ।

अथ मंत्र पुष्पं: ॐ अमुक देवताभ्यो नमः । मंत्र पुष्पं समर्पयामि नमस्करोमि ।।

यानिकानि च पापानि जन्मांतर कृतानि च । तानि तानि विनश्यंति प्रदक्षिण पदे पदे । ॐ अमुक देवताभ्यो नमः । प्रदक्षिणां समर्पयामि॥

नमः सर्व हितार्थाय जगदाधार हेतवे ।साष्टांगो यं प्रणामस्ते प्रयत्नेन मया कृतः । ॐ अमुक देवताभ्यो नमः । साष्टांग नमस्कारं समर्पयामि ॥

अथ प्रार्थना:- आत्मा त्वंगिरिजा मतिः सहचराः प्राणाः शरीरं गृहं पूजाते विषयोपभोगरचना निद्रा समाधि स्थितिः । संचारः पदयोःप्रदक्षिणविधिः स्तोत्राणि सर्वागिरो यद्यत्कर्म करोमि तत्तदखिलं शंभो तवाराधनं ॥

करचरणकृतं वा कायजं कर्मजं वा । श्रवणनयनजंवा मानसंवापराधं । विहितमविहितंवा सर्वमे तत् क्षमस्व जय जय करुणाब्धे श्री महादेव शंभो ॥

गतं पापं गतं दुःखं गतं दारिद्र्यमेवच । आगता सुख संपत्तिः पुण्याश्च तवदर्शनात् ॥

रूपं देहि जयं देहि यशॊदेहि द्विशॊजहि। पुत्रान् देहि धनं देहि सर्व कामाश्च देहि मे।

आवाहनं न जानामि न जानामि तवार्चनं । पूजां चैव न जानामि क्षम्यतां परमॆश्वर ॥

ॐ अमुक दॆवताभ्यॊ नमः। प्रार्थनां समर्पयामि। यस्य स्मृत्या च नामॊक्त्या तपः पूजा क्रियादिषु । न्यूनं संपूर्णतां याति सद्यॊ वंदे तमच्युतं । मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरॆश्वर । यत्पूजितं मयादॆव परिपूर्णं तदस्तुमॆ ॥

अनॆन ध्यानावाहनादि षॊडशॊपचार पूजनॆन श्री अमुक देवताः प्रीयंतां । श्रीकृष्णार्पणमस्तु ॥

गणेश चतुर्थी पूजा मंत्र

(गणेश मूर्ति मनेगे तंदमेले अदन्नु मण्णिनिंद नाल्कूकडॆ मणिमेले गट्टियागि कूडिसबेकु )

आमेले आचमन, देशकालोच्चार ,संकल्प माडि केळगिनंते मंत्र अंदु, गणेश मूर्तियल्लि प्राणप्रतिष्टापने माडबेकु ||

आचमनं ॐ केशवाय नमः | नारायणाय नमः | माधवाय नमः| गोविन्दाय नमः | विष्णवे नमः |मधुसूदनाय नमः | त्रिविक्रमाय नमः | वामनाय नमः |श्रीधराय नमः | हृषीकेशाय नमः | पद्मनाभाय नमः | दामोदराय नमः | संकर्षणाय नमः | वासुदेवाय नमः | प्रद्युम्नाय नमः | अनिरुद्धाय नमः | पुरुषोत्तमाय नमः | अधोक्षजाय नमः | नारसिंहाय नमः | अच्युताय नमः | जनार्दनाय नमः | उपेंद्राय नमः | हरये नमः |श्री कृष्णाय नमः |

देश कालोच्चार ॐ नमः शुभाभ्यां शुभे शोभने मुहूर्ते आद्य ब्रह्मणः द्वितीय परार्धे श्री श्वेत वराहकल्पे वैवस्वत मन्वंतरे कलियुगे प्रथम चरणे भरत वर्षे भरत खण्डे जंबू द्विपे दंडकारण्ये देशे गोदावर्याः दक्षिणे तीरे शालिवाहन शके बौद्धावतारे रामक्षेत्रे अस्मिन् वर्तमाने व्यावहारिके चांद्रमानेन जय नाम संवत्सरस्य दक्षिणायने वर्षा ऋतौ भाद्रपद मासे शुक्लपक्षे चतुर्थी तिथौ भृगु वासरे शुभ दिवस नक्षत्रे शुभ नक्षत्रे शुभ योगे शुभ करणे एवंगुण विशेषण विशिष्टायां शुभ तिथौ ----गोत्रोत्पन्नस्य -----राशि, -----नक्षत्रे ----चरणे जातस्य ------नामधेयस्य (एंदु उच्चार माडि केळगिनंते संकल्प माडबेकु )

संकल्प : मम आत्मनः श्रुतिस्मृति पुराणोक्त फलप्राप्त्यर्थं अस्माकं सकुटुंबानां सपरिवाराणां क्षेम स्थैर्य वीर्य विजय अभय आयुः आरोग्य ऐश्वर्य अभिवृध्यर्थं समस्तभ्युदयार्थंच श्री परमेश्वर प्रीत्यर्थं यथा मिलितोपचारद्रव्यैः ध्यानावाहनादि षोडशोपचार पूजां करिष्ये | (एन्दु अंदु ताबाणदल्लि नीरु बिडबेकु )

पूजा

कलशस्य मुखे विष्णुः कंठे रुद्रः समाश्रितः || मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः || कुक्षो तु सागराः सर्वे सप्तद्वीपा वसुंधरा || यजुर्वेदः सामवेदो ह्यथर्वणः ||अंगैश्च सहिताः सर्वे कलशं तु समाश्रिताः || अत्र गायत्री सावित्री शांतिःपुष्टिकरी तथा ||आयांतु देवपूजार्थं दुरितक्षयकारकाः || गंगे च यमुनेचैव गोदावरी सरस्वती नर्मदे सिंधु कावेरी जलेस्मिन सन्निधिं कुरु || कलशाय नमः || सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि || (एडगडे पूजेय सलुवागी इट्ट नीरु तुंबिद तंबिगेगे गंध अक्षता हागु हूव एरिसबेकु )

शंखाय नमः || सर्वोपचारार्थे गन्धपुष्पं समर्पयामि ||( नम्म बलगडेगे इट्ट शंखक्के स्नान माडिसि ,अदरल्ली नीरु तुम्बी गन्ध,हूव ,तुलसीपत्र एरिसबेकु )

घंटायै नमः || सर्वोपचारार्थे गन्धपुष्पं समर्पयामि ||घंटानादं कुर्यात् | (ई मन्त्र हेळि घंटेगे स्नान माडिसि गन्धाक्षत पुष्प एरिसि घण्टि बारिसि नम्म एडगडेगे इडबेकु )

दीपदेवताभ्यो नमः|| सर्वोपचारार्थे गन्धपुष्पं समर्पयामि ||

अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा | यस्मरेत् पुंडरीकाक्षं स बाह्याभ्यंतरः शुचिः || पूजा द्रव्याणि संप्रोक्ष्य आत्मानं संप्रोक्षयेत् || (ई मंत्र अन्नुत्त तुळशिपत्रदिंद कलशदल्लिय निरु तगोंडु पूजेय सामग्रिगे सिडिसि नमगू सिडिसिकोळ्ळबेकु .आमेले प्राणप्रतिष्ठा माडबेकु )

प्राणप्रतिष्ठा

(ई मंत्र अनुव मुंदे देव मूर्तिय पादक्के दुर्वा अथवा हुव हच्चि हिडिय बेकु )

अस्य श्रीप्राणप्रतिष्ठामंत्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः | ऋग्यजुः सामाथर्वाणि छंदांसि | परा प्राणशक्तिर्देवता |आं बीजं | ह्रीं शक्तिः | क्रों कीलकं |अस्यां मूर्ती प्राणप्रतिष्ठापन विनियोगः ॐ आं ह्रीं क्रों अं यं रं लं वं शं षं हं क्षं अः क्रों ह्रीं आं अस्याः मूर्तेः सर्वेंद्रियाणि वान्ग्मनस्त्वक्चक्षुः श्रोत्रजिव्हाघ्राणवाक्पाणिपाद पायूपस्थानि स्वस्थाने इहैवागत्य सुखं चिरं तिष्ठंतु स्वाहा | ॐ असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो देहि भोगं | ज्योक्पश्येम सूर्यं मुच्चरंत मनुमते मूळयो नः स्वस्ति ||

गर्भाधानादि पंचदश संस्कार सिध्द्यर्थं पंचदश प्रणवावृत्तिः करिष्ये |

(हीगे अंदु ताबाणदल्लि नीरु बिट्टु 15 सल ॐ कारद उच्चार माडबेकु .आमेले मुंदिन श्लोक अनबेकु )

रक्तांभोधिस्थपोतोल्ल सद्रुणसरोजादि रुढाकराब्जैः |

पाशं कोदंडमिक्षूद्भ वमथगुणमप्यंकुशं पंच बाणान् |

बिभ्राणासुक्कपालं त्रिनयनलसिता पीनवक्षोरुहाड्या |

देवी बालार्कवर्णा भवतु सुखकारी प्राणशक्तिः परा नः ||

(हीगे अंदु देवमूर्तिय एरडूकण्णुगळिगे हूविनिंद तुप्प हच्चि , खोब्रि-बेल्लद नैवेद्य तोरिसबेकु)

(हीगे प्राणप्रतिष्ठा माडि केळगिनंते मंत्र अंदु पूजा माडबेकु.प्राणप्रतिष्ठा माडिदमेले विसर्जन माडुव वरेगे देवरन्नु अळुगाडिसबारदु. प्राणप्रतिष्ठा मोदलनेय दिन मात्र माडबेकु )

आगच्छ् देवदेवेश तेजोराशे जगत्पते। क्रियमाणाम् मया पूजाम् गृहाण सुरसुत्तम॥श्री सिद्धि विनायकाय नमः | आवाहनार्थे अक्षताम् समर्पयामि ॥

नानारत्न समायुक्तम् कार्तस्वरविभूषितम्।आसनम् देवदेवेश प्रीत्यर्थम् प्रतिगृह्यताम्॥श्री सिद्धि विनायकाय नमः | आसनार्थे अक्षताम् समर्पयामि ॥

पाद्यं गृहाण देवेश सर्वक्षेमसमर्थ भो ।भक्त्या समर्पितं देव लोकनाथ नमोस्तुते ॥श्री सिद्धि विनायकाय नमः । पादयॊः पाद्यम् समर्पयामि ॥(ताबाणदल्लि नीरु बिडबेकु )

नमस्ते देवदेवेश नमस्ते धरणीधर । नमस्ते जगदाधार अर्घ्यं नः प्रतिगृह्यताम् ॥श्री सिद्धि विनायकाय नमः । हस्तयॊः अर्घ्यम् समर्पयामि ॥(ताबाणदल्लि नीरु बिडबेकु )

कर्पूरवासितम् तॊयं मंदाकिन्याः समाहृताम्।आचम्यताम् जगन्नाथ मयादत्तम् हि भक्तितः॥श्री सिद्धि विनायकाय नमः । मुखे आचमनीयम् समर्पयामि ॥(ताबाणदल्लि नीरु बिडबेकु )

गंगा सरस्वती रॆवा पयॊष्णी नर्मदा जलैः। स्नापितोऽसि मयादेव तथा शातिं कुरुष्ट मे॥श्री सिद्धि विनायकाय नमः | स्नानीयं समर्पयामि ॥(पंचामृत स्नान माडिसि शुद्धोदक स्नान मडिसबेकु.अंदरे करिकियिंद पंचामृत, आमेले नीरु सिडिस बेकु )

गृहावै प्रतिष्ठासूक्तम् तत्प्रतिष्ठित तमयावाचा शंस्तव्यं तस्माद्यद्यपिदूर इव पशूंल्लभते ग्रहानॆवै नानाजिगमिषति गृहाहि पशूनां प्रतिष्ठा प्रतिष्ठा ।। श्री सिद्धि विनायकाय नमः । सुप्रतिष्ठितमस्तु ॥

(देवरिगे अक्षता हाकबेकु ) सर्वभूषादिके सौम्ये लोकलज्जा निवारणे। मयोपपादिते तुभ्यम् वाससि प्रतिगृह्यताम्॥ श्री सिद्धि विनायकाय नमः | वस्त्रोपवस्तार्थे कार्पासवस्त्रम् समर्पयामि॥(गेज्वस्त्र हाकबेकु )

देवदेव नमस्तेस्तु त्राहिमाम् भवसागरात् । ब्रह्मसूत्रम् सॊत्तरीयम् गृहाण पुरुषॊत्तम॥ श्री सिद्धि विनायकाय नमः | यज्ञॊपवीतम् समर्पयामि॥ (जनिवार हाकबेकु )

श्रीखंडं चंदनं दिव्यं गंदाढ्यं सुमनॊहरं । विलॆपनं सुरश्रॆष्ठ चंदनं प्रतिगृह्यतां ॥ श्री सिद्धि विनायकाय नमः | विलॆपनार्थे चंदनं समर्पयामि ॥ (गंध हच्चबेकु)

अक्षतास्तंडुलाः शुभ्राः कुंकुमॆन विराजिताः । मया निवेदिता भ्क्त्या गृहाण परमॆश्वर ॥ श्री सिद्धि विनायकाय नमः | अक्षतां समर्पयामि ॥

हरिद्राचूर्ण संयुक्तं कुंकुमं कामदायकं । वस्त्रालंकरणं सर्वं दॆवि त्वं प्रतिगृह्यतां । श्री सिद्धि विनायकाय नमः | कुंकुमं समर्पयामि ॥

कज्जलं कामदं रम्यं कामिनीकामसंभवं । नॆत्रयॊर्भूषणार्थाय कज्जलं प्रतिगृह्यतां ॥ श्री सिद्धि विनायकाय नमः | कज्जलं समर्पयामि ॥( अक्षता हाकबेकु )

उदितारुण संकाशं जपाकुसुम सन्निभं । सीमन्त भूषणार्थाय सिन्दूरं प्रतिगृह्यतां । श्री सिद्धि विनायकाय नमः | सिन्दूरं समर्पयामि ॥

ज्यॊत्स्नापते नमस्तुभ्यम् नमस्ते विश्वरूपिणॆ | नानापरिमलद्रव्यम् गृहाण परमॆश्वर | श्री सिद्धि विनायकाय नमः | नानापरिमल द्रव्याणि समर्पयामि॥

माल्यादीनि सुगंधीनि मालत्यादीनि वै प्रभॊ। मया हृतानि पूजार्थम् पुष्पाणि प्रतिगृह्यताम् । श्री सिद्धि विनायकाय नमः | नानाविध पत्र पुष्पाणि समर्पयामि॥

वनस्पतिरसॊद्भूतॊ गंधाढ्यॊ गंधरुत्तमः । अर्घॆयः सर्वदॆवानां धूपॊऽयं प्रतिगृह्यतां । श्री सिद्धि विनायकाय नमः | धूपमाघ्रापयामि ॥ (अगरबत्ति हच्चबेकु)

साज्यं त्रिवर्ति संयुक्तं वह्निनायॊजितं मया । दीपं गृहाण दॆवॆश त्रैलॊक्यतिमिरापह । भक्त्यादीपं प्रयच्छामि दॆवाय परमात्मने। त्राहिमां निरयात् घॊरात् दीपोऽयं प्रतिगृह्यतां ॥ श्री सिद्धि विनायकाय नमः | दीपं समर्पयामि ॥ (आरति माडुव दीपवन्नु हच्चबेकु)

नैवेद्यं गृह्यतां दॆव भक्तिं मे ह्यचलां कुरु । ईप्सितं मे वरं दॆहि परत्र च परां गतिं । शर्कराखंड खाद्यानि दधि क्षीर घृतानि च । आहारं भक्ष्य भॊज्यं च नैवेद्यं प्रतिगृह्यतां ॥(नैवेद्य तोरिसबेकु)

ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा ।ॐ उदानाय स्वाहा ।ॐ समानाय स्वाहा । ॐ ब्रह्मणे स्वाहा । श्री सिद्धि विनायकाय नमः । नैवेद्यं समर्पयामि ॥

नैवेद्य मध्ये पानीयं समर्पयामि । उत्तरापॊशनं समर्पयामि । हस्तप्रक्षालनं समर्पयामि । मुखप्रक्षालनं समर्पयामि । करॊद्वर्तनार्थे चंदनं समर्पयामि ॥(ताबणदल्लि नीरु बिडकोत होगबेकु)

पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतं | कर्पूरैला समायुक्तं तांबूलं प्रतिगृह्यतां ||श्री सिद्धि विनायकाय नमः । तांबूलं समर्पयामि ||(ई मंत्र अंदु देवर मुंदे विडा इट्टु अदर मेले दक्षिणा इट्टु नीरु बिडबेकु )

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः | अनंत पुण्यफलदमतः शातिं प्रयच्छ मे | श्री सिद्धि विनायकाय नमः । दक्षिणां समर्पयामि ||

इदं फलं मयादॆव स्थापितं पुरतस्तव । तेन मॆ सफला वाप्तिर्भवॆत् जन्मनि जन्मनि ॥श्री सिद्धि विनायकाय नमः । पूर्णफलं समर्पयामि ॥

चन्द्रादित्यौ च धरणिर्विद्युदग्निस्तथैवच । त्वमॆव सर्व ज्यॊतींषि आर्तिक्यं प्रतिगृह्यतां ॥ श्री सिद्धि विनायकाय नमः । महानीरांजन आर्तिक्यं समर्पयामि ॥(आरति हाडगळन्नु हाडबेकु)

कर्पूरगौरं करुणावतारं संसारतारं भुजगेंद्रहारं । सदावसंतं हृदयारविंदे भवं भवानीसहितं नमामि॥श्री सिद्धि विनायकाय नमः । कर्पूरार्तिक्यं समर्पयामि नमस्करोमि ।

अथ मंत्र पुष्पं: |श्री सिद्धि विनायकाय नमः । मंत्र पुष्पं समर्पयामि नमस्करोमि ।।(मन्त्रपुष्प मन्त्र अनबेकु )

मंत्रपुष्प :

ॐ यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन् | ते ह नाकं महिमानः सचंत यत्र पूर्वे साध्याःसंति देवाः || ॐ राजाधिराजाय प्रसह्य साहिने || नमो वयं वैश्रवणाय कुर्महे || स मे कामान्कामकामाय मह्यम् || कामेश्वरो वैश्रवणो ददातु || कु बेराय वैश्रवणाय || महाराजाय नमः || ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ट्यं राज्यं महाराज्यमहाधिपत्यमयं समंतदर्यायी स्यात्सार्वभौमः सार्वायुष आंतादापरार्धात् | पृथिव्यै समुद्रपर्यंताया एकराळिति || तदप्येषः श्लोकोभिगीतो मरुतः परिवेष्टारो मरुत्तस्या वसन् गृहे || आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति || एकदंताय विद्महे वक्रतुंडाय धीमही || तन्नो दंतिः प्रचोदयात् ||श्रीसिद्धिविनायकाय नमः| मंत्रपुष्पं समर्पयामि ||

यानिकानि च पापानि जन्मांतर कृतानि च । तानि तानि विनश्यंति प्रदक्षिण पदे पदे ।।श्री सिद्धि विनायकाय नमः| प्रदक्षिणां समर्पयामि॥

नमः सर्व हितार्थाय जगदाधार हेतवे ।साष्टांगो यं प्रणामस्ते प्रयत्नेन मया कृतः । श्री सिद्धि विनायकाय नमः। साष्टांग नमस्कारं समर्पयामि ॥

अथ प्रार्थना:- आत्मा त्वंगिरिजा मतिः सहचराः प्राणाः शरीरं गृहं पूजाते विषयोपभोगरचना निद्रा समाधि स्थितिः । संचारः पदयोःप्रदक्षिणविधिः स्तोत्राणि सर्वागिरो यद्यत्कर्म करोमि तत्तदखिलं शंभो तवाराधनं ॥

करचरणकृतं वा कायजं कर्मजं वा । श्रवणनयनजंवा मानसंवापराधं । विहितमविहितंवा सर्वमे तत् क्षमस्व जय जय करुणाब्धे श्री महादेव शंभो ॥

गतं पापं गतं दुःखं गतं दारिद्र्यमेवच । आगता सुख संपत्तिः पुण्याश्च तवदर्शनात् ॥

रूपं देहि जयं देहि यशॊदेहि द्विशॊजहि। पुत्रान् देहि धनं देहि सर्व कामाश्च देहि मे।

आवाहनं न जानामि न जानामि तवार्चनं । पूजां चैव न जानामि क्षम्यतां परमॆश्वर ॥

श्री सिद्धि विनायकाय नमः। प्रार्थनां समर्पयामि। यस्य स्मृत्या च नामॊक्त्या तपः पूजा क्रियादिषु । न्यूनं संपूर्णतां याति सद्यॊ वंदे तमच्युतं । मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरॆश्वर । यत्पूजितं मयादॆव परिपूर्णं तदस्तुमॆ ॥ अनॆन ध्यानावाहनादि षॊडशॊपचार पूजनॆन श्री सिद्धि विनायक देवता प्रीयंतां । श्रीकृष्णार्पणमस्तु ॥

मंगळ मूर्ति मोरया.

___________________________________________________________________________________________________________

उत्तरपूजा (इदन्नु गणपति विसर्जन माडुवक्किन्त मोदलु माडबेकु ).

आचम्य श्रीसिद्धिविनायक्महागणपतिप्रीत्यर्थं गंधादिपंचोपचारैः उत्तरपूजनं करिष्ये | महागणपतये नमः | विलेपनार्थे चन्दनं समर्पयामि | अक्षतां हरिद्रां कुंकुमं च समर्पयामि | श्री महागणपतये नमः | सिंदूरं दूर्वांकुरान् कालोद्भवपुष्पाणि च समर्पयामि |

(हीगे मंत्र अंदु गणपतिगे गंध,हूव,अक्षता हळदिकुंकुम ,दुर्वा एरिसबेकु )

श्री महागणपतये नमः| धूपं समर्पयामि |महागणपतये नमः | दीपं समर्पयामि | महागणपतये नमः नैवेद्यं समर्पयामि |

(हीगे मंत्र अंदु गणपतिगे धूप,दीपद आरति माडि,नैवेद्य तोरिसबेकु.कर्पूर हच्चि आरति माडि मंत्रपुष्प अनबेकु.)

आमेले मसरु अवलक्किय अथवा करद मोदकद नैवेद्य तोरिसबेकु)

अनेन कृत उत्तराराधानेन तेन श्री भगवान् सिध्धिविनायकः सांगः सपरिवारः प्रियतां | ॐ तत्सत् |

(इदादमेले मनेयल्लिय एल्लरू देवरिगे नमस्कार माडि केळगे हेळिद मंत्र अंदु गणपतिगे अक्षता हाकि गणपतियन्नु उत्तर दिक्किगे अळुगाडिसबेकु )

यांतु देवगणाः सर्वे पूजामादाय पार्थिवीम् |

इष्टकामप्रसिध्यर्थं पुनरागमनायच |

गणपति बप्पा मोरया

Home